Friday, April 5, 2013

विदुरनीतिः ८-४

विद्यायाः शत्रवः

असूयैकपदं मृत्युरतिवादः श्रियो वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवः त्रयः ॥

पदच्छेदः

असूया एक-पदं मृत्युः अतिवादः श्रियः वधः ।
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवः त्रयः ॥

अन्वयः

असूया एकपदं मृत्युः । अतिवादः श्रियः वधः । अशुश्रूषा, त्वरा, श्लाघा (इत्येते) विद्यायाः त्रयः शत्रवः ।

तात्पर्यम्

दोषारोप प्रवृत्तिः असूया नाम गुणः । असूया मृत्युतुल्या भवति । अतिवादेन संपत्तिः नश्यति । अन्येषां कथनम् आकर्णयितुंम् अनिच्छा अशुश्रूषा । अशुश्रूषा, त्वरा , आत्मश्लाघनम् इति इमे त्रयः विद्यायाः रिपवः भवन्ति ।