Sunday, March 10, 2013

अमरकोषः प्रथमखण्डः स्वर्गवर्गः (शिवस्य नामानि)


                                                             अमरकोषः

मङ्गलाचरणम्

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः

सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥


प्रथमखण्डः स्वर्गवर्गः (शिवस्य नामानि)

शंभुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ६०

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥६२

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥६४

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥६६

गङ्गाधरोऽन्धरिपुः कृतध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥६८

शम्भुः – शम् ‘मङ्गलम्’ भवति अस्मात् इति ।

इशः -  ईष्टे ‘ईश्’ ऐश्वर्ये ।

पशुपतिः – पशूनां (जीवानाम्) पतिः  

शिवः –  शिवः ‘कल्याणं’ विद्यते अस्य इति ।

शूलः – शूलम् अस्य अस्ति इति ।    

महेश्वरः - महान् च असौ ईश्वरः ।

ईश्वरः – ईशितुं शीलम् अस्य इति ।

शर्वः – शृणाति ( ‘शॄ’ हिंसायम् ) सर्वाः प्रजाः संहरति प्रलये ; संहारयति वा भक्तानां पापानि ।

ईशाणः – ईष्टे तच्छीलः ।

शङ्करः – शमि (उपशमे) शं करोतीति ।

चन्द्रशेखरः – चन्द्रः शेखरः यस्य इति ।

भूतेशः – भूतानाम् ईशः ।

खण्डपरशुः – खण्डयति शत्रून् इति तादृशः परशुः अस्य ।

गिरीशः – गिरां (शास्त्राणाम्) ईशः ; गिरेः ईशः गिरीशः ।

गिरिशः – गिरौ (कैलाशे) शेते विराजते इति ।

मृडः – मृडति (मृङ् सुखने ) ।

मृत्युंजयः – मृत्युं जयति ।

कृत्तिवासाः – कृत्तिः (चर्म – गजासुरस्य चर्म) वासः यस्य सः ।

पिनाकी – पिनाकः अस्य अस्तीति ।

प्रमथाधिपः – प्रमथानाम् अधिपः (शिवपारिषदः – प्रमथा) ।


उग्रः – (उच् समवाये) उच्यति क्रुधा संबध्यते ।

कपर्दी – कपर्दः अस्य अस्तीति ।

श्रीकण्ठः – श्रीः शोभा कण्ठे अस्य ।

शितिकण्ठः – शितिः कालः कण्ठः अस्य ।

कपालभृत् – कपालं बिभर्ति इति ।

वामदेवः – वामयति दुष्टानां मदम् इति वामः । वामश्च असौ देवः इति वामदेवः ।

महादेवः – महान् च असौ देवः ।

विरूपाक्षः – विविधानि रविचन्द्राग्णि रूपाणि अक्षीणि अस्य ; विरूपेषु अपि अक्षि (कृपादृष्टि) अस्य ।

त्रिलोचनः – त्रिषुकालेषु/लोकेषु/गुणेषु/वेदेषु लोचनं ज्ञानम् अस्य ।

कृशानुरेताः – कृशानौ (अग्नौ) रेतः यस्य ।

धूर्जटिः – धूः (गङ्गा) जटासु अस्य ।

हरति – हरति इति ।        

भर्गः – भृज्यन्ते कामादयः अनेन इति ।

त्रयम्बकः – त्रीणि अम्बकानि अस्य / त्रयाणां लोकानाम् अम्बकः पिता ।

त्रिपुरान्तकः – त्रयाणां पुराणां समाहारः त्रिपुरम् । तस्य अन्तकः ।

गङ्गाधरः – धरतीति धरः ; गङ्गायाः धरः ।

अन्धकरिपुः – अन्धकस्य दौत्यस्य रिपुः ।

क्रतुध्वंसी – क्रतुं ध्वंसयति इति ।

वृषध्वजः – वृषः ध्वजः (चिह्नम्) अस्य ।

व्योमकेशः – व्योम्नि केशाः यस्य ।

भवः – भू प्राप्तौ भावयते ।

भीमः – बिभेति अस्मादिति ।

स्थाणुः – तिष्ठति इति । ध्रुवः ।

रुद्रः – रोदयति ।

उमापतिः – उमायाः पतिः ।


Saturday, March 9, 2013

अमरकोशः प्रथमकाण्डम्-४ स्वर्ग-वर्गः (विष्णोः)


अमरकोशः

मङ्गलाचरणम्

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः
सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥

प्रथमकाण्डम्-४  स्वर्ग-वर्गः (विष्णोः)

विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः ३५         दामोदरो ऋषीकेशः केशवो माधवः स्वभूः ३५

दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ३६        पीताम्बरोऽच्युतः शार्ङ्गी विश्वक्सेनो जनार्दनः ३७

उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ३८                  पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ३९

देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः ४०  वनमाली बलिध्वंसी कंसारातिरधोक्षजः ४१

विश्वम्भरः कैटभजितद्विधुः श्रीवत्सलाञ्छनः ४२        ‘- इति ३९ विष्णोः

1.         विष्णुः =            वेवेष्टि (विष्ऌ व्याप्तौ) 

2.         नारायणः =        नराणां समूहः नारम् ; तदयनं यस्य ; / आययति प्रवर्तयति वा

3.         कृष्णः      =        कृष्णः वर्णः अस्य अस्ति इति ; / कर्षति अरीन् (पापानि) वा इति       

4.         वैकुण्ठः =          विगता कुण्ठा (नाशः) यस्मात् (कुठि प्रतिघाते) ; विकुण्ठं ज्ञानं स्थानं वा अस्य

5          विष्टरश्रवाः =     विष्टरे अश्वत्थवृक्षे श्रूयते नित्यम् (तत्र वसति इति) 

                                    विष्टरौ=दर्भमुष्टी इव श्रवसी=कर्णौ / श्रवः=यशः वा यस्य इति

6.         दामोदरः =        दाम उदरे यस्य

7.         हृषीकेशः =        हृषीकाणाम् (इन्द्रियाणाम्) ईशः

8.         केशवः   =          प्रशस्ताः केशाः सन्ति यस्य ;

                        कश्च (कः) ईश्च (ईशः) केशौ पुत्रपौत्रत्वेन स्तः अस्य इति ;

                        कश्च (कः) अश्च (अः) ईश्च (ईशः) ते केशाः ; ब्रह्मविष्णुरुद्राः नियम्यतया सन्ति अस्य ;

9.         माधवः =           मायाः (लक्ष्म्याः) धवः

10.       स्वभूः  =            स्वतः भवति इति

11.       दैत्यारिः       =   दैत्यानाम् अरिः

12.       पुण्डरीकाक्षः =   पुण्डरीकम् इव अक्षिणी यस्य

13.       गोविन्दः =         गां भुवं धेनुं स्वर्गं वेदं वा विन्दति इति

14.       गरुडध्वजः =      गरुडः ध्वजः (चिह्नम्) अस्य इति

15.       पीताम्बरः =       पीतम् अम्बरं यस्य सः

16.       अच्युतः   =        नास्ति च्युतं (स्खलनं) स्वपदात् यस्य

17.       शार्ङ्गी =           शृङ्गस्य विकारः शार्ङ्गम् (धनुः) ; शार्ङ्गम् अस्य अस्ति इति

18.       विश्वक्सेनः =      युद्धस्य सन्नाहमात्रेण दैत्यसेना विधूयते अनने इति

19.       जनार्दनः =         जनान् अर्दयति (अर्द् हिंसायाम्) इति / जनैः अर्द्यते (अर्द्- गतौ, याचने च)

20.       उपेन्द्रः =            इन्द्रम् उपगतः अनुजत्वात्;

21.       इन्द्रावरजः =     इन्द्रस्य अवरजः

22.       चक्रपाणिः=        चक्रं पाणौ यस्य

23.       चतुर्भुजः =         चत्वारः भुजाः यस्य

24.       पद्मनाभः=         पद्मं नाभौ यस्य

25.       मधुरिपुः=          मधोः असुरस्य रिपुः

26.       वासुदेवः=          सर्वत्र असौ वसति आत्मरूपेण इति वासुः । वासुश्च असौ देवः वासुदेवः ।

                                   वसुदेवस्य अपत्यं पुमान् वासुदेवः

27.       त्रिविक्रमः =       त्रयः विक्रमाः (पादविन्यासाः) यस्य ;

28.       देवकीनन्दनः =  देवक्याः नन्दनः

29.       शौरिः =           शूरस्य अपत्यं, तद्-वंशजत्वात्

30.       श्रीपतिः =          श्रियः पतिः

31.       पुरुषोत्तमः=       पुरुषेषु उत्तमः

32.       वनमाली =        आपादपद्मं या माला वनमाला, वनमाला अस्य अस्ति इति

33.       बलिध्वंसी=        बलिम् असुरं ध्वंसितुं शीलम् अस्य इति

34.       कंसारातिः =      कंसस्य आरातिः

35.       अधोक्षजः =        अधो न क्षीयते जातु यस्मात् तस्मात् अधोक्षजः

36.       विश्वम्भरः =      विश्वं बिभर्ति (भृ धारणपोषणयोः) इति

37.       कैटभजित् =       कैटभम् असुरम् अजैषीत्

38.       विधुः =             विध्यति असुरान् इति

39.       श्रीवत्सलाञ्छनः = श्रीयुक्तं वत्सं (वक्षः) लाञ्छनं (चिह्नं) यस्य