अमरकोषः
मङ्गलाचरणम्
मङ्गलाचरणम्
यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः
सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥
प्रथमखण्डः स्वर्गवर्गः (शिवस्य नामानि)
शंभुरीशः पशुपतिः शिवः शूली
महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ६०
भूतेशः खण्डपरशुर्गिरीशो गिरिशो
मृडः । मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥६२
उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः
कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥६४
कृशानुरेताः सर्वज्ञो
धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥६६
गङ्गाधरोऽन्धरिपुः कृतध्वंसी
वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥६८
शम्भुः – शम् ‘मङ्गलम्’ भवति अस्मात् इति ।
इशः - ईष्टे ‘ईश्’
ऐश्वर्ये ।
पशुपतिः – पशूनां (जीवानाम्) पतिः ।
शिवः – शिवः ‘कल्याणं’
विद्यते अस्य इति ।
शूलः – शूलम् अस्य अस्ति
इति ।
महेश्वरः - महान् च असौ ईश्वरः ।
ईश्वरः – ईशितुं शीलम् अस्य इति ।
शर्वः – शृणाति ( ‘शॄ’ हिंसायम् ) सर्वाः प्रजाः संहरति
प्रलये ; संहारयति वा भक्तानां पापानि ।
ईशाणः – ईष्टे तच्छीलः ।
शङ्करः – शमि (उपशमे) शं करोतीति ।
चन्द्रशेखरः – चन्द्रः शेखरः यस्य इति ।
भूतेशः – भूतानाम् ईशः ।
खण्डपरशुः – खण्डयति शत्रून् इति तादृशः परशुः अस्य ।
गिरीशः – गिरां (शास्त्राणाम्) ईशः ; गिरेः ईशः गिरीशः ।
गिरिशः – गिरौ (कैलाशे) शेते विराजते इति ।
मृडः – मृडति (मृङ् सुखने ) ।
मृत्युंजयः – मृत्युं जयति ।
कृत्तिवासाः – कृत्तिः (चर्म – गजासुरस्य चर्म) वासः यस्य
सः ।
पिनाकी – पिनाकः अस्य अस्तीति ।
प्रमथाधिपः – प्रमथानाम् अधिपः (शिवपारिषदः – प्रमथा) ।
उग्रः – (उच् समवाये) उच्यति क्रुधा संबध्यते ।
कपर्दी – कपर्दः अस्य अस्तीति ।
श्रीकण्ठः – श्रीः शोभा कण्ठे अस्य ।
शितिकण्ठः – शितिः कालः कण्ठः अस्य ।
कपालभृत् – कपालं बिभर्ति इति ।
वामदेवः – वामयति दुष्टानां मदम् इति वामः । वामश्च असौ
देवः इति वामदेवः ।
महादेवः – महान् च असौ देवः ।
विरूपाक्षः – विविधानि रविचन्द्राग्णि रूपाणि अक्षीणि अस्य
; विरूपेषु अपि अक्षि (कृपादृष्टि) अस्य ।
त्रिलोचनः – त्रिषुकालेषु/लोकेषु/गुणेषु/वेदेषु लोचनं
ज्ञानम् अस्य ।
कृशानुरेताः – कृशानौ (अग्नौ) रेतः यस्य ।
धूर्जटिः – धूः (गङ्गा) जटासु अस्य ।
हरति – हरति इति ।
भर्गः – भृज्यन्ते कामादयः अनेन इति ।
त्रयम्बकः – त्रीणि अम्बकानि अस्य / त्रयाणां लोकानाम्
अम्बकः पिता ।
त्रिपुरान्तकः – त्रयाणां पुराणां समाहारः त्रिपुरम् । तस्य
अन्तकः ।
गङ्गाधरः – धरतीति धरः ; गङ्गायाः धरः ।
अन्धकरिपुः – अन्धकस्य दौत्यस्य रिपुः ।
क्रतुध्वंसी – क्रतुं ध्वंसयति इति ।
वृषध्वजः – वृषः ध्वजः (चिह्नम्) अस्य ।
व्योमकेशः – व्योम्नि केशाः यस्य ।
भवः – भू प्राप्तौ भावयते ।
भीमः – बिभेति अस्मादिति ।
स्थाणुः – तिष्ठति इति । ध्रुवः ।
रुद्रः – रोदयति ।
उमापतिः – उमायाः पतिः ।