Sunday, March 10, 2013

अमरकोषः प्रथमखण्डः स्वर्गवर्गः (शिवस्य नामानि)


                                                             अमरकोषः

मङ्गलाचरणम्

यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः

सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥


प्रथमखण्डः स्वर्गवर्गः (शिवस्य नामानि)

शंभुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ ६०

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥६२

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥६४

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥६६

गङ्गाधरोऽन्धरिपुः कृतध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः ॥६८

शम्भुः – शम् ‘मङ्गलम्’ भवति अस्मात् इति ।

इशः -  ईष्टे ‘ईश्’ ऐश्वर्ये ।

पशुपतिः – पशूनां (जीवानाम्) पतिः  

शिवः –  शिवः ‘कल्याणं’ विद्यते अस्य इति ।

शूलः – शूलम् अस्य अस्ति इति ।    

महेश्वरः - महान् च असौ ईश्वरः ।

ईश्वरः – ईशितुं शीलम् अस्य इति ।

शर्वः – शृणाति ( ‘शॄ’ हिंसायम् ) सर्वाः प्रजाः संहरति प्रलये ; संहारयति वा भक्तानां पापानि ।

ईशाणः – ईष्टे तच्छीलः ।

शङ्करः – शमि (उपशमे) शं करोतीति ।

चन्द्रशेखरः – चन्द्रः शेखरः यस्य इति ।

भूतेशः – भूतानाम् ईशः ।

खण्डपरशुः – खण्डयति शत्रून् इति तादृशः परशुः अस्य ।

गिरीशः – गिरां (शास्त्राणाम्) ईशः ; गिरेः ईशः गिरीशः ।

गिरिशः – गिरौ (कैलाशे) शेते विराजते इति ।

मृडः – मृडति (मृङ् सुखने ) ।

मृत्युंजयः – मृत्युं जयति ।

कृत्तिवासाः – कृत्तिः (चर्म – गजासुरस्य चर्म) वासः यस्य सः ।

पिनाकी – पिनाकः अस्य अस्तीति ।

प्रमथाधिपः – प्रमथानाम् अधिपः (शिवपारिषदः – प्रमथा) ।


उग्रः – (उच् समवाये) उच्यति क्रुधा संबध्यते ।

कपर्दी – कपर्दः अस्य अस्तीति ।

श्रीकण्ठः – श्रीः शोभा कण्ठे अस्य ।

शितिकण्ठः – शितिः कालः कण्ठः अस्य ।

कपालभृत् – कपालं बिभर्ति इति ।

वामदेवः – वामयति दुष्टानां मदम् इति वामः । वामश्च असौ देवः इति वामदेवः ।

महादेवः – महान् च असौ देवः ।

विरूपाक्षः – विविधानि रविचन्द्राग्णि रूपाणि अक्षीणि अस्य ; विरूपेषु अपि अक्षि (कृपादृष्टि) अस्य ।

त्रिलोचनः – त्रिषुकालेषु/लोकेषु/गुणेषु/वेदेषु लोचनं ज्ञानम् अस्य ।

कृशानुरेताः – कृशानौ (अग्नौ) रेतः यस्य ।

धूर्जटिः – धूः (गङ्गा) जटासु अस्य ।

हरति – हरति इति ।        

भर्गः – भृज्यन्ते कामादयः अनेन इति ।

त्रयम्बकः – त्रीणि अम्बकानि अस्य / त्रयाणां लोकानाम् अम्बकः पिता ।

त्रिपुरान्तकः – त्रयाणां पुराणां समाहारः त्रिपुरम् । तस्य अन्तकः ।

गङ्गाधरः – धरतीति धरः ; गङ्गायाः धरः ।

अन्धकरिपुः – अन्धकस्य दौत्यस्य रिपुः ।

क्रतुध्वंसी – क्रतुं ध्वंसयति इति ।

वृषध्वजः – वृषः ध्वजः (चिह्नम्) अस्य ।

व्योमकेशः – व्योम्नि केशाः यस्य ।

भवः – भू प्राप्तौ भावयते ।

भीमः – बिभेति अस्मादिति ।

स्थाणुः – तिष्ठति इति । ध्रुवः ।

रुद्रः – रोदयति ।

उमापतिः – उमायाः पतिः ।


No comments:

Post a Comment