अमरकोशः
मङ्गलाचरणम्
यस्य
ज्ञानदयासिन्धोरगाधस्यानघा गुणाः
सेव्यतामक्षयो
धीराः स श्रिये चामृताय च ॥
प्रथमकाण्डम्-४ स्वर्ग-वर्गः (विष्णोः)
विष्णुर्नारायणः
कृष्णो वैकुण्ठो विष्टरश्रवाः ३५ दामोदरो
ऋषीकेशः केशवो माधवः स्वभूः ३५
दैत्यारिः
पुण्डरीकाक्षो गोविन्दो गरुडध्वजः ३६ पीताम्बरोऽच्युतः
शार्ङ्गी विश्वक्सेनो जनार्दनः ३७
उपेन्द्र
इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः ३८ पद्मनाभो
मधुरिपुर्वासुदेवस्त्रिविक्रमः ३९
देवकीनन्दनः
शौरिः श्रीपतिः पुरुषोत्तमः ४० वनमाली
बलिध्वंसी कंसारातिरधोक्षजः ४१
विश्वम्भरः
कैटभजितद्विधुः श्रीवत्सलाञ्छनः ४२ ‘- इति ३९ विष्णोः
1. विष्णुः = वेवेष्टि (विष्ऌ
व्याप्तौ)
2. नारायणः = नराणां समूहः नारम् ; तदयनं यस्य ; / आययति प्रवर्तयति वा
3. कृष्णः = कृष्णः
वर्णः अस्य अस्ति इति ; / कर्षति अरीन्
(पापानि) वा इति
4. वैकुण्ठः = विगता कुण्ठा
(नाशः) यस्मात् (कुठि प्रतिघाते) ; विकुण्ठं ज्ञानं स्थानं वा
अस्य
5 विष्टरश्रवाः = विष्टरे
अश्वत्थवृक्षे श्रूयते नित्यम् (तत्र वसति इति)
विष्टरौ=दर्भमुष्टी इव श्रवसी=कर्णौ / श्रवः=यशः वा यस्य
इति
6. दामोदरः = दाम उदरे यस्य
7. हृषीकेशः = हृषीकाणाम्
(इन्द्रियाणाम्) ईशः
8. केशवः = प्रशस्ताः केशाः सन्ति यस्य ;
कश्च (कः) ईश्च (ईशः)
केशौ पुत्रपौत्रत्वेन स्तः अस्य इति ;
कश्च (कः) अश्च (अः) ईश्च
(ईशः) ते केशाः ; ब्रह्मविष्णुरुद्राः नियम्यतया सन्ति अस्य ;
9. माधवः = मायाः (लक्ष्म्याः)
धवः
10. स्वभूः = स्वतः भवति इति
11. दैत्यारिः = दैत्यानाम्
अरिः
12. पुण्डरीकाक्षः = पुण्डरीकम् इव
अक्षिणी यस्य
13. गोविन्दः = गां भुवं धेनुं
स्वर्गं वेदं वा विन्दति इति
14. गरुडध्वजः = गरुडः ध्वजः (चिह्नम्)
अस्य इति
15. पीताम्बरः = पीतम् अम्बरं यस्य सः
16. अच्युतः = नास्ति च्युतं (स्खलनं) स्वपदात् यस्य
17. शार्ङ्गी = शृङ्गस्य विकारः
शार्ङ्गम् (धनुः) ; शार्ङ्गम् अस्य अस्ति इति
18. विश्वक्सेनः = युद्धस्य
सन्नाहमात्रेण दैत्यसेना विधूयते अनने इति
19. जनार्दनः = जनान् अर्दयति
(अर्द् –हिंसायाम्) इति / जनैः अर्द्यते (अर्द्- गतौ, याचने च)
20. उपेन्द्रः = इन्द्रम् उपगतः
अनुजत्वात्;
21. इन्द्रावरजः = इन्द्रस्य अवरजः
22. चक्रपाणिः= चक्रं पाणौ यस्य
23. चतुर्भुजः = चत्वारः भुजाः यस्य
24. पद्मनाभः= पद्मं नाभौ यस्य
25. मधुरिपुः= मधोः असुरस्य रिपुः
26. वासुदेवः= सर्वत्र असौ वसति
आत्मरूपेण इति वासुः । वासुश्च असौ देवः वासुदेवः ।
वसुदेवस्य अपत्यं पुमान्
वासुदेवः
27. त्रिविक्रमः = त्रयः विक्रमाः
(पादविन्यासाः) यस्य ;
28. देवकीनन्दनः = देवक्याः नन्दनः
29. शौरिः = शूरस्य
अपत्यं, तद्-वंशजत्वात्
30. श्रीपतिः = श्रियः पतिः
31. पुरुषोत्तमः= पुरुषेषु उत्तमः
32. वनमाली = आपादपद्मं या माला
वनमाला, वनमाला अस्य अस्ति इति
33. बलिध्वंसी= बलिम् असुरं
ध्वंसितुं शीलम् अस्य इति
34. कंसारातिः = कंसस्य आरातिः
35. अधोक्षजः = अधो न क्षीयते जातु
यस्मात् तस्मात् अधोक्षजः
36. विश्वम्भरः = विश्वं बिभर्ति (भृ ‘धारणपोषणयोः)
इति
37. कैटभजित् = कैटभम् असुरम् अजैषीत्
38. विधुः = विध्यति असुरान्
इति
39. श्रीवत्सलाञ्छनः = श्रीयुक्तं वत्सं (वक्षः) लाञ्छनं (चिह्नं) यस्य
No comments:
Post a Comment