Sunday, February 24, 2013

रामोदान्ते सुन्दरकाण्डः

स समुल्लङ्घय मैनाकं सुरसामभिवाद्य च ।
निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥ (२)

पदच्छेदः

सः समुल्लङ्घय, मैनाकम्, सुरसाम्, अभिवाद्य, च, निहत्य, सिंहिकाम्, नीत्या, पारम्, प्राप, महोदधेः

पदार्थः

सः = असौ
समुल्लङ्घय = उत्प्लुत्य
मैनाकम् = मैनाकनाम्ना पर्वतः
सुरसाम् = सुरसानाम्नी नागमाता
अभिवाद्य = प्रणम्य
निहत्य = विनश्य
नीत्या = उचितप्रकारेण
पारम् = तीरम्
प्राप = प्राप्तवान्
महोदधेः = समुद्रस्य (महान् च असौ उदधिः = महोदधिः उदकम् अस्मिन् धीयते इति उदधिः। )

पदपरिचयः

सः = ‘तद्’ दकारन्तः प्.प्र.ए.
समुल्लङ्घय = सम् + उत् उपसर्गपूर्वकं ‘लघि’ ल्यबन्ताव्ययम्
मैनाकम् = अ.पु.द्वि.ए.
सुरसाम् = आ स्त्री द्वि. ए.
अभिवाद्य = ‘अभि’ उपसर्गपूर्वकं ‘वदि’ ल्यबन्ताव्ययम्
च = अव्ययम्
निहत्य = ‘नि’ उपसर्गपूर्वकं ‘हृ’ ल्यबन्ताव्ययम्
सिंहिकाम् = आ स्त्री द्वि ए.
नीत्या = इ स्त्री तृ ए.
पारम् = अ.पु. द्वि. ए
प्राप =  ‘प्र’ उपसर्गपूर्वकं ‘आप्’ धातुः लिट् प्र.पु.ए.
महोदधेः = इ.पु.ष.ए.

अन्वयः 

सः मैनाकं समुल्लङ्घय सुरसाम् अभिवाद्य च नीत्या सिंहिकां निहत्य महोदधेः पारं प्राप ।

आकाङ्क्षां तात्पर्यं च लिखिन्तु ।
 

No comments:

Post a Comment