Saturday, February 16, 2013

रामोदान्ते सुन्दरकाण्डः - प्रथमश्लोकस्य उत्तरम्

रामोदान्ते सुन्दरकाण्डः -  प्रथमश्लोकस्य उत्तरम्

क्रियापदं किम् ? पुप्लुवे (कूर्दितवान् , उत्प्लुतवान् )

कः पुप्लुवे = पवनात्मजः
किं कृत्वा पुप्लुवे = अभिवाद्य
कान् अभिवाद्य = अमरान्
कीदृशान् अमरान् अभिवाद्य? = सकलान् 
कस्मात् पुप्लुवे = गिरेः
कीदृशात् गिरेः = तस्मात् गिरेः
किमर्थं पुप्लुवे = विलङ्घयितुम्

कं विलङ्घयितुं पुप्लुवे =  अर्णवम्
कदा पुप्लुवे = अथ
तात्पर्यम्

ततः सीता दर्शनाकाङ्क्षी मारुतिः समुद्रं लङ्घयितुं निश्चित्य सर्वान् देवान् प्रणम्य तस्मात् गिरेः उत्प्लुतवान् ।

No comments:

Post a Comment