Saturday, February 23, 2013

५.५५ श्लोकस्य  उत्तरम्

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलमुच्यते ॥

पदच्छेदः

येन तु एतानि सर्वाणि सम्-गृहीतानि भारत ।
यद् बलानाम् बलम् श्रेष्ठम् तत् प्रज्ञाबलम् उच्यते ॥

अन्वयः

भारत ! येन तु एतानि सर्वाणि सङ्गृहीतानि, यद् बलानां श्रेष्ठं बलं तत् प्रज्ञाबलम् उच्यते ।

भावार्थः

हे भारत ! प्रज्ञायां सर्वाणि बलानि अन्तर्भूतानि सन्ति । यतः प्रज्ञा एव सर्वोत्तमं बलम्  अतः एव सर्वेषु बलेषु श्रेष्ठं बलं प्रज्ञा इति उच्यते ।

No comments:

Post a Comment