Monday, February 11, 2013

१.८३ श्लोकस्य उत्तरम्

१.८३  श्लोकस्य उत्तरम्

पदच्छेदः
षड् दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता ।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥

अन्वयः
भूतिम् इच्छता पुरुषेण  निद्रा, तन्द्रा, भयम्, क्रोधः, आलस्यम्, दीर्घसूत्रता (इति) षड् दोषाः इह हातव्याः ।

भावार्थः

येन  पुरुषेण ऐश्वर्यम् इष्यते तेन अस्मिन् (लोके) निद्रा, मन्दता, भयम्, क्रोधः, आलस्यम्, विस्तृतभाषणम् इति षड् दोषाः त्यक्तव्याः ।

No comments:

Post a Comment