Wednesday, February 13, 2013

रामोदन्ते सुन्दरकाण्डः 01

 
रामोदन्ते सुन्दरकाण्डः

अभिवाद्याथ सकलान् अमरान् पवनात्मजः ।
पुप्लुवे च गिरेस्तस्मात् विलङ्घयितुमर्णवम् ॥

पदविभागः
अभिवाद्य अथ सकलान् अमरान् पवनात्मजः पुप्लुवे च गिरेः तस्मात् विलङ्घयितुम् अर्णवम् ।

पदार्थः

अभिवाद्य = प्रणम्य ; अथ = ततः ; अमरान् = देवान् ; सकलान् = सर्वान् ; पवनात्मजः = मारुतिः ; पुप्लुवे = उत्प्लुतवान् ; गिरे:= पर्वतात् ; विलङ्घयितुम् = अधिगन्तुम्, समुत्तीर्तुम् ; अर्णवम् = समुद्रम्

पदपरिचयः

अभिवाद्य = अभि उपसर्गपूर्वकस्य  ‘वदि’ धातोः ‘अभिवादनस्तुत्योः’ ल्यबन्ताव्ययम्
अथ = अव्ययम्
सकलान् = अ.पु. द्वि वि. ब.व
अमरान् = अ.पु. द्वि. वि. ब. व
पवनत्मजः  = अ.पु. प्र.वि. ए.व
पुप्लुवे = प्लुङ् (गतौ) लिट् प्र.पु. ए.व
च = अव्ययम्
गिरेः = इ.पु. प.वि. ए.व
तस्मात् = तद् - दकारान्तः पु. प.वि .व.
विलङ्घयितुम् = वि उपसर्गपूर्वकः लघि "गतौ" तुमुनन्ताव्ययम्
अर्णवम् = अ.पु. द्वि.वि. ए.व

अन्वयः
अथ पवनात्मजः सकलान् अमरान् च अभिवाद्य  तस्मात् गिरेः अर्णवं विलङ्घयितुं पुप्लुवे ।

श्लोकात् क्रियापदं चिन्वन्तु ।

पदानि विभक्तिशः विभज्य अधो विद्यमानायाः आकाङ्क्षायाः उत्तरम् यच्छन्तु

कः पुप्लुवे? किं कृत्वा पुप्लुवे? कान् अभिवाद्य? कीदृशान् अभिवाद्य? कस्मात् पुप्लुवे ? कीदृशात् पुप्लुवे?
किमर्थं पुप्लुवे?    कं विलङ्घयितुं पुप्लुवे? कदा पुप्लुवे?

तात्पर्यं स्वशब्दैः लिखित्वा प्रेषयन्तु ।

No comments:

Post a Comment