Sunday, February 24, 2013

रामोदान्ते सुन्दरकाण्डः

स समुल्लङ्घय मैनाकं सुरसामभिवाद्य च ।
निहत्य सिंहिकां नीत्या पारं प्राप महोदधेः ॥ (२)

पदच्छेदः

सः समुल्लङ्घय, मैनाकम्, सुरसाम्, अभिवाद्य, च, निहत्य, सिंहिकाम्, नीत्या, पारम्, प्राप, महोदधेः

पदार्थः

सः = असौ
समुल्लङ्घय = उत्प्लुत्य
मैनाकम् = मैनाकनाम्ना पर्वतः
सुरसाम् = सुरसानाम्नी नागमाता
अभिवाद्य = प्रणम्य
निहत्य = विनश्य
नीत्या = उचितप्रकारेण
पारम् = तीरम्
प्राप = प्राप्तवान्
महोदधेः = समुद्रस्य (महान् च असौ उदधिः = महोदधिः उदकम् अस्मिन् धीयते इति उदधिः। )

पदपरिचयः

सः = ‘तद्’ दकारन्तः प्.प्र.ए.
समुल्लङ्घय = सम् + उत् उपसर्गपूर्वकं ‘लघि’ ल्यबन्ताव्ययम्
मैनाकम् = अ.पु.द्वि.ए.
सुरसाम् = आ स्त्री द्वि. ए.
अभिवाद्य = ‘अभि’ उपसर्गपूर्वकं ‘वदि’ ल्यबन्ताव्ययम्
च = अव्ययम्
निहत्य = ‘नि’ उपसर्गपूर्वकं ‘हृ’ ल्यबन्ताव्ययम्
सिंहिकाम् = आ स्त्री द्वि ए.
नीत्या = इ स्त्री तृ ए.
पारम् = अ.पु. द्वि. ए
प्राप =  ‘प्र’ उपसर्गपूर्वकं ‘आप्’ धातुः लिट् प्र.पु.ए.
महोदधेः = इ.पु.ष.ए.

अन्वयः 

सः मैनाकं समुल्लङ्घय सुरसाम् अभिवाद्य च नीत्या सिंहिकां निहत्य महोदधेः पारं प्राप ।

आकाङ्क्षां तात्पर्यं च लिखिन्तु ।
 

Saturday, February 23, 2013

५.५५ श्लोकस्य  उत्तरम्

येन त्वेतानि सर्वाणि सङ्गृहीतानि भारत ।
यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलमुच्यते ॥

पदच्छेदः

येन तु एतानि सर्वाणि सम्-गृहीतानि भारत ।
यद् बलानाम् बलम् श्रेष्ठम् तत् प्रज्ञाबलम् उच्यते ॥

अन्वयः

भारत ! येन तु एतानि सर्वाणि सङ्गृहीतानि, यद् बलानां श्रेष्ठं बलं तत् प्रज्ञाबलम् उच्यते ।

भावार्थः

हे भारत ! प्रज्ञायां सर्वाणि बलानि अन्तर्भूतानि सन्ति । यतः प्रज्ञा एव सर्वोत्तमं बलम्  अतः एव सर्वेषु बलेषु श्रेष्ठं बलं प्रज्ञा इति उच्यते ।

Sunday, February 17, 2013

विदुरनीतिः ४.५२

विदुरनीतिः ४.५२

नरः केन किं विन्दते (प्राप्नोति)?

बुद्धया भयं  प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया  ज्ञानं शान्तिं योगेन विन्दति ॥ ४.५२

पदच्छेदः

बुद्धया भयं  प्रणुदति तपसा विन्दते महत् ।
गुरु-शुश्रूषया ज्ञानं शान्तिं योगेन विन्दति ॥

अन्वयः

(नरः) बुद्धया भयं प्रणुदति, तपसा महत् विन्दते, गुरुशुश्रूषया ज्ञानम्, योगेन शान्तिं विन्दति ।

तात्पर्यम्

नरः बुद्धया भयं अपनोदति / नाशयति, तपसा महत् (ब्रह्म) विन्दते (प्राप्नोति) , गुरुसेवया ज्ञानं  विन्दते (ज्ञानवर्धनं प्राप्नोति),  योगाभ्यासेन शान्तिं च विन्दते (प्राप्नोति) ।

अधोदत्तस्य श्लोकस्य  पदच्छेदम् अन्वयञ्च कुर्वन्तु ।

येन त्वेनानि सर्वाणि सङ्गृहीतानि भारत ।
यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलमुच्यते ॥ ५.५५




Saturday, February 16, 2013

रामोदान्ते सुन्दरकाण्डः - प्रथमश्लोकस्य उत्तरम्

रामोदान्ते सुन्दरकाण्डः -  प्रथमश्लोकस्य उत्तरम्

क्रियापदं किम् ? पुप्लुवे (कूर्दितवान् , उत्प्लुतवान् )

कः पुप्लुवे = पवनात्मजः
किं कृत्वा पुप्लुवे = अभिवाद्य
कान् अभिवाद्य = अमरान्
कीदृशान् अमरान् अभिवाद्य? = सकलान् 
कस्मात् पुप्लुवे = गिरेः
कीदृशात् गिरेः = तस्मात् गिरेः
किमर्थं पुप्लुवे = विलङ्घयितुम्

कं विलङ्घयितुं पुप्लुवे =  अर्णवम्
कदा पुप्लुवे = अथ
तात्पर्यम्

ततः सीता दर्शनाकाङ्क्षी मारुतिः समुद्रं लङ्घयितुं निश्चित्य सर्वान् देवान् प्रणम्य तस्मात् गिरेः उत्प्लुतवान् ।

Wednesday, February 13, 2013

रामोदन्ते सुन्दरकाण्डः 01

 
रामोदन्ते सुन्दरकाण्डः

अभिवाद्याथ सकलान् अमरान् पवनात्मजः ।
पुप्लुवे च गिरेस्तस्मात् विलङ्घयितुमर्णवम् ॥

पदविभागः
अभिवाद्य अथ सकलान् अमरान् पवनात्मजः पुप्लुवे च गिरेः तस्मात् विलङ्घयितुम् अर्णवम् ।

पदार्थः

अभिवाद्य = प्रणम्य ; अथ = ततः ; अमरान् = देवान् ; सकलान् = सर्वान् ; पवनात्मजः = मारुतिः ; पुप्लुवे = उत्प्लुतवान् ; गिरे:= पर्वतात् ; विलङ्घयितुम् = अधिगन्तुम्, समुत्तीर्तुम् ; अर्णवम् = समुद्रम्

पदपरिचयः

अभिवाद्य = अभि उपसर्गपूर्वकस्य  ‘वदि’ धातोः ‘अभिवादनस्तुत्योः’ ल्यबन्ताव्ययम्
अथ = अव्ययम्
सकलान् = अ.पु. द्वि वि. ब.व
अमरान् = अ.पु. द्वि. वि. ब. व
पवनत्मजः  = अ.पु. प्र.वि. ए.व
पुप्लुवे = प्लुङ् (गतौ) लिट् प्र.पु. ए.व
च = अव्ययम्
गिरेः = इ.पु. प.वि. ए.व
तस्मात् = तद् - दकारान्तः पु. प.वि .व.
विलङ्घयितुम् = वि उपसर्गपूर्वकः लघि "गतौ" तुमुनन्ताव्ययम्
अर्णवम् = अ.पु. द्वि.वि. ए.व

अन्वयः
अथ पवनात्मजः सकलान् अमरान् च अभिवाद्य  तस्मात् गिरेः अर्णवं विलङ्घयितुं पुप्लुवे ।

श्लोकात् क्रियापदं चिन्वन्तु ।

पदानि विभक्तिशः विभज्य अधो विद्यमानायाः आकाङ्क्षायाः उत्तरम् यच्छन्तु

कः पुप्लुवे? किं कृत्वा पुप्लुवे? कान् अभिवाद्य? कीदृशान् अभिवाद्य? कस्मात् पुप्लुवे ? कीदृशात् पुप्लुवे?
किमर्थं पुप्लुवे?    कं विलङ्घयितुं पुप्लुवे? कदा पुप्लुवे?

तात्पर्यं स्वशब्दैः लिखित्वा प्रेषयन्तु ।

Monday, February 11, 2013

१.८३ श्लोकस्य उत्तरम्

१.८३  श्लोकस्य उत्तरम्

पदच्छेदः
षड् दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता ।
निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता ॥

अन्वयः
भूतिम् इच्छता पुरुषेण  निद्रा, तन्द्रा, भयम्, क्रोधः, आलस्यम्, दीर्घसूत्रता (इति) षड् दोषाः इह हातव्याः ।

भावार्थः

येन  पुरुषेण ऐश्वर्यम् इष्यते तेन अस्मिन् (लोके) निद्रा, मन्दता, भयम्, क्रोधः, आलस्यम्, विस्तृतभाषणम् इति षड् दोषाः त्यक्तव्याः ।

Saturday, February 9, 2013

विदुरनीतिः 1

विदुरनीतिः

षडेते तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥१ - ८६॥

पदच्छेदः

षड् एते तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यम् दानम् अनालस्यम् अनसूया क्षमा धृतिः ॥

अन्वयः

पुंसा सत्यं, दानम्, अनालस्यम्, अनसूया, क्षमा, धृतिः एते षट् गुणाः तु कदाचन न हातव्याः ।

तात्पर्यम्

मनुष्यः कदापि एतान् सत्यं, दानम्, अनालस्यम्, अनसूया, क्षमा, धृतिः च उत्तमान् षट् गुणान् न त्यजेत् ।

समानरीत्या अधो दत्तस्य श्लोकस्य पदच्छेदं अन्वयञ्च कुर्वन्तु ।

षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ १ - ८३ ॥

Thursday, February 7, 2013

श्रीदक्षिणामूर्तिस्तोत्रम्

श्रीदक्षिणामूर्तिस्तोत्रम्
मङ्गलश्लोकः
विश्वं दर्पणदृश्यमाननगरी तुल्यं निजान्तर्गतम्
    पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयम्
    तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥
अन्वयः पदविभागः च विश्वं दर्पणदृश्यमाननगरी तुल्यं (अस्ति) । यथा निद्रया निजान्तर्गतं (स्वप्नविश्वम्) बहिरिव उद्भूतं (तथा) मायया (बहिरिव जाग्रत्प्रपञ्चम्) आत्मनि पश्यन् यः प्रबोधसमये स्वात्मानम् अद्वयम् एव साक्षात्कुरुते  तस्मै  श्रीगुरुमूर्तये श्रीदक्षिणामूर्तये इदं नमः ।
प्रतिपदार्थः विश्वं जगत् दर्पणदृश्यमाननगरी बिम्बे पश्यन्ती पुरी तुल्यं समानम् (अस्ति) । यथा निद्रया शयनेन निजान्तर्गतम् निद्रालोः अन्ते यत् स्वप्नप्रपञ्चम् बहिः इव  - बाह्यसदृशम् उद्भूतम् जायमानं (तथा) मायया अविद्यया (बहिरिव उद्भूतं जाग्रत्प्रपञ्चम्) आत्मनि स्वे पश्यन् यः यः ज्ञानी दृश्यमानः प्रबोधसमये समाधौ ज्ञानोदयकाले स्वात्मानम् अन्तस्थं  चैतन्यम्  अद्वयम् एकम्  एव अन्यविषयान्तरा साक्षात्कुरुते अपरोक्षतया त्रिपुटीरहितः दृश्यते तस्मै श्रीगुरुमूर्तये श्रीदक्षिणामूर्तये इदं नमः ॥
को गुरुः ? गुकारश्चान्धकारोहि रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥
दक्षिणामूर्तिः दक्षिणं प्रति मूर्तिः, मृत्युञ्जयः, शिवः ।
श्लोकः
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
    मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥

अन्वयः पदविभागः च इदं जगत् प्राक् बीजस्य अन्तः अङ्कुरः इव निर्विकल्पं (आसीत्) । पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् । यः मायावी इव महायोगी इव अपि स्वेच्छया (इदं जगत्) विजृम्भयति, श्रीगुरुमूर्तये श्रीदक्षिणामूर्तये तस्मै इदं नमः ॥
प्रतिपदार्थः इदम् एतत् जगत् – विश्वम् प्राक् पूर्वम् बीजस्य -वपनस्य अन्तः अन्ते अङ्कुरः इव मञ्चरी इव निर्विकल्पम् अव्यक्तम् (आसीत्) । यः मायावी इव - ऐन्द्रजालिकः इव महायोगी इव शिद्धपुरुषः इव अपि - च स्वेच्छया – स्वस्य सङ्कल्पेन पुनः (पुनः पुनः)
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् प्रकृत्या परिभावितयोः जायमानयोः देशकालयोः फलेन नानात्वेन शोभितं (इदं जगत्) विजृम्भयति प्रसारयति, श्रीदक्षिणामूर्तये तस्मै इदं नमः ॥
व्याकरणांशाः
१. निर्विकल्पम् निर्गताः विकल्पाः यस्मात् सः
२. स्वेच्छया स्वस्य इच्छा स्वेच्छा तया
३. मायया कल्पितः, मायाकल्पितः माययापरिभावितः । देशः च कालः च देशकालौ । मायाकल्पितौ देशकालौ मायाकल्पितदेशकालौ, तयोः मायाकल्पितदेशकालयोः । मायाकल्पितदेशकालयोः कलना मायाकल्पितदेशकालकलना । मायाकल्पितदेशकालकलनया वैचित्र्यं मायाकल्पितदेशकालकलनावैचित्र्यम् । मायाकल्पितदेशकालकलनावैचित्र्येण चित्रीकृतम्, मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
भावार्थः यथा वपने अङ्कुरः अव्यक्तरूपः सन् तथा एतद्जगदपि सृष्टेः पूर्वं मायायां बीजाकारे आसीत् । सृष्ट्यनन्तरं अमुया मायया कृताभ्यां देशकालाभ्यां कार्याभ्यां प्रपञ्चः अनेकरूपतया भाति । यत् पूर्वं नास्ति परे सदिव भाति तन्मिथ्या । एतत् सृष्टिकार्यम् ऐन्द्रजालिकेन वा सिद्धपुरुषेण वा  प्रसारयत् ऐन्द्रजालिकं समानम् अस्ति । येन गुरुणा परब्रह्मणा ईश्वरेण स्वशक्त्या जगत् क्रियमाणं, तस्मै अस्मदाचार्याय  हरीश्वरैक्याय  परमात्मने एतान् नमस्कारान् समर्पयामि ॥
'ईश्वरोगुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय श्रीदक्षिणामूर्तये नमः ॥'