विदुरनीतिः ४.५२
नरः केन किं विन्दते (प्राप्नोति)?
बुद्धया भयं प्रणुदति तपसा विन्दते महत् ।
गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति ॥ ४.५२
पदच्छेदः

गुरु-शुश्रूषया ज्ञानं शान्तिं योगेन विन्दति ॥
अन्वयः
(नरः) बुद्धया भयं प्रणुदति, तपसा महत् विन्दते, गुरुशुश्रूषया ज्ञानम्, योगेन शान्तिं विन्दति ।
तात्पर्यम्
नरः बुद्धया भयं अपनोदति / नाशयति, तपसा महत् (ब्रह्म) विन्दते (प्राप्नोति) , गुरुसेवया ज्ञानं विन्दते (ज्ञानवर्धनं प्राप्नोति), योगाभ्यासेन शान्तिं च विन्दते (प्राप्नोति) ।
अधोदत्तस्य श्लोकस्य पदच्छेदम् अन्वयञ्च कुर्वन्तु ।
येन त्वेनानि सर्वाणि सङ्गृहीतानि भारत ।
यद् बलानां बलं श्रेष्ठं तत् प्रज्ञाबलमुच्यते ॥ ५.५५

No comments:
Post a Comment