Monday, August 12, 2013


  • 1. अक्षरम्
    श्रवणेिन्द्रयग्राह्यम् अक्षरम् ।
    अक्षरस्यैव नामान्तरं वर्णः इति ।
    • अक्षराणि (13 +33 = 46 ) ( प्लूतान् , अयोगवाहान् च वर्जयित्वा )
      • स्वराः 13 ( प्लूतान् वर्जयित्वा )
        स्वयं राजन्ते इति स्वराः ( महाभाष्ये )
        स्वराः नाम स्वतन्त्रतया स्पष्टम् उच्चार्यमाणाः वर्णाः ।
        • ह्रस्वाः 5
          • अ,इ,उ,ऋ,ऌ
        • दीर्घाः 8
          ए,ऐ,ओ,औ इत्येते नित्यं दीर्घाः एव, कदापि ह्रस्वाः न ।
          दीर्घ ऌकारः नास्ति ।
          • आ,ई,ऊ,ॠ,ए,ऐ,ओ,औ
        • प्लूताः 9
          • अ३,इ३,उ३,ऋ३,ऌ३,ए३,ऐ३,ओ३,औ३
      • व्यञ्जनानि 33
        • मृदुव्यञ्जनानि (हश् ) कर्कशव्यञ्जनानि ( खर् )
        • वर्गीय व्यञ्जनानि 25 (स्पर्शाः )
          • कवर्गः (कु ) 5
            • क,ख,ग,घ,ङ
          • चवर्गः ( चु ) 5
            • च,छ,ज,झ,ञ
          • टवर्गः ( टु ) 5
            • ट,ठ,ड,ढ,ण
          • तवर्गः ( तु ) 5
            • त,थ,द,ध,न
          • पवर्गः ( पु) 5
            • प,फ,ब,भ,म
        • अन्तःस्थाः 4
          • य,र,ल,व
        • ऊष्माणः 4
          • श,ष,स,ह
      • अयोगवाहाः 4
        न विद्यते योगः ( सम्बन्धः ) येषां ( माहेष्वरसूत्रेषु ) ते अयोगाः ।वहन्तीति वाहाः ।
        अयोगाश्च ते वाहाश्च इति अयोगवाहाः ।
        • अनुस्वारः अं, इं, ---
        • विसर्गः अः , इः ---
        • जिह्वामूलीयः ःक, ःख
          ःक , ःख , इति कखाभ्यां प्राग् अर्धविसर्गसदृशः जिह्वामूलीयः ।
          यथा - बालः करोति । चैत्रः खनति ।
        • उपध्मानीयः ःप, ःफ
          ःप , ःफ , इति पफाभ्यां प्राग् अर्धविसर्गसदृशः उपध्मानीयः ।
          यथा - वालःपिबति । वृक्षः फलति ।