- 1. अक्षरम्
श्रवणेिन्द्रयग्राह्यम् अक्षरम् ।
अक्षरस्यैव नामान्तरं वर्णः इति । - अक्षराणि
(13 +33 = 46 ) ( प्लूतान् , अयोगवाहान् च वर्जयित्वा
)
- स्वराः
13 ( प्लूतान् वर्जयित्वा
)
स्वयं राजन्ते इति स्वराः ( महाभाष्ये )
स्वराः नाम स्वतन्त्रतया स्पष्टम् उच्चार्यमाणाः वर्णाः । - ह्रस्वाः 5
- अ,इ,उ,ऋ,ऌ
- दीर्घाः
8
ए,ऐ,ओ,औ इत्येते नित्यं दीर्घाः एव, कदापि ह्रस्वाः न ।
दीर्घ ऌकारः नास्ति । - आ,ई,ऊ,ॠ,ए,ऐ,ओ,औ
- प्लूताः 9
- अ३,इ३,उ३,ऋ३,ऌ३,ए३,ऐ३,ओ३,औ३
- व्यञ्जनानि
33
- मृदुव्यञ्जनानि (हश्
) कर्कशव्यञ्जनानि ( खर्
)
- वर्गीय व्यञ्जनानि 25 (स्पर्शाः )
- कवर्गः
(कु ) 5
- क,ख,ग,घ,ङ
- चवर्गः
( चु ) 5
- च,छ,ज,झ,ञ
- टवर्गः ( टु
) 5
- ट,ठ,ड,ढ,ण
- तवर्गः ( तु
) 5
- त,थ,द,ध,न
- पवर्गः ( पु)
5
- प,फ,ब,भ,म
- अन्तःस्थाः 4
- य,र,ल,व
- ऊष्माणः 4
- श,ष,स,ह
- अयोगवाहाः
4
न विद्यते योगः ( सम्बन्धः ) येषां ( माहेष्वरसूत्रेषु ) ते अयोगाः ।वहन्तीति वाहाः ।
अयोगाश्च ते वाहाश्च इति अयोगवाहाः । - अनुस्वारः अं,
इं, ---
- विसर्गः अः
, इः ---
- जिह्वामूलीयः ःक, ःख
ःक , ःख , इति कखाभ्यां प्राग् अर्धविसर्गसदृशः जिह्वामूलीयः ।
यथा - बालः करोति । चैत्रः खनति । - उपध्मानीयः ःप,
ःफ
ःप , ःफ , इति पफाभ्यां प्राग् अर्धविसर्गसदृशः उपध्मानीयः ।
यथा - वालःपिबति । वृक्षः फलति ।
Monday, August 12, 2013
Labels:
अक्षरपठनम्
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment