Monday, August 12, 2013


  • 1. अक्षरम्
    श्रवणेिन्द्रयग्राह्यम् अक्षरम्
    अक्षरस्यैव नामान्तरं वर्णः इति
    • अक्षराणि (13 +33 = 46 ) ( प्लूतान् , अयोगवाहान् वर्जयित्वा )
      • स्वराः 13 ( प्लूतान् वर्जयित्वा )
        स्वयं राजन्ते इति स्वराः ( महाभाष्ये )
        स्वराः नाम स्वतन्त्रतया स्पष्टम् उच्चार्यमाणाः वर्णाः
        • ह्रस्वाः 5
          • ,,,,
        • दीर्घाः 8
          ,,, इत्येते नित्यं दीर्घाः एव, कदापि ह्रस्वाः
          दीर्घ ऌकारः नास्ति
          • ,,,,,,,
        • प्लूताः 9
          • अ३,इ३,उ३,ऋ३,ऌ३,ए३,ऐ३,ओ३,औ३
      • व्यञ्जनानि 33
        • मृदुव्यञ्जनानि (हश् ) कर्कशव्यञ्जनानि ( खर् )
        • वर्गीय व्यञ्जनानि 25 (स्पर्शाः )
          • कवर्गः (कु ) 5
            • ,,,,
          • चवर्गः ( चु ) 5
            • ,,,,
          • टवर्गः ( टु ) 5
            • ,,,,
          • तवर्गः ( तु ) 5
            • ,,,,
          • पवर्गः ( पु) 5
            • ,,,,
        • अन्तःस्थाः 4
          • ,,,
        • ऊष्माणः 4
          • ,,,
      • अयोगवाहाः 4
        विद्यते योगः ( सम्बन्धः ) येषां ( माहेष्वरसूत्रेषु ) ते अयोगाः ।वहन्तीति वाहाः
        अयोगाश्च ते वाहाश्च इति अयोगवाहाः
        • अनुस्वारः अं, इं, ---
        • विसर्गः अः , इः ---
        • जिह्वामूलीयः ःक, ःख
          ःक , ःख , इति कखाभ्यां प्राग् अर्धविसर्गसदृशः जिह्वामूलीयः
          यथा - बालः करोति चैत्रः खनति
        • उपध्मानीयः ःप, ःफ
          ःप , ःफ , इति पफाभ्यां प्राग् अर्धविसर्गसदृशः उपध्मानीयः
          यथा - वालःपिबति वृक्षः फलति

Sunday, July 28, 2013

SPEAK IN SAMSKRIT IN JUST 10 DAYS!!
 
* NO FEES * ALL WELCOME
 
Class Details:
 
Adambakkam
2/41 - 11th Cross St,  Mahalakshminagar
Aug 1-10
11 – 1 noon
9444469638
Velachery
Ganapathi Sachitananda Ashramam, Velachery
Aug 10 -19
630 - 830 pm
9840264060 / 9884337360
T.Nagar
Sarada Vidyalaya, Burkit.road
Aug 5-14
630 - 830 pm
9841434401 /
Triplicane
Vivekananda Kendra, Singarachari Street
Aug 1-10
630 - 830 pm
9710899665
Vadapalani
MGR Janaki School, Arcot Road saligramam,
Aug 1-10
630 - 830 pm
9940198573 / 9840468370
Tiruvanmiyur
e-pagemaker (P) Limited,  No.4 G-3, Bharati nagar.
Aug 1-10
630 - 830 pm
9840730156
Besant Nagar
G2, Seapoint Apts, Beach Rd, Kalakshetra colony
Aug 1-10
11 – 1 noon
9445474837
Chromepet
Vivekananda Vidyalaya, Mahadevan Street,  Nehrunagar
Aug 3-11
6 - 8 pm
9444935284
Kilpauk
Rajaji vidyashram, Kilpauk.Garden Road
Jul 29- Aug 7
11 – 1 noon
9940066302
Anna Nagar
Garden View Apt     Annanagar East
Aug 1-10
6 - 8 pm
9444339669
Choolaimedu
LM Dada School, Choolaimedu
Aug 1-10
630 - 830 pm
9841001558
Perumbur
Vivekananda Vidyalaya, Tulasinga Street
Aug 1-10
630 - 830 pm
9841085975
Ambattur
Vivekananda Vidyalaya P.H.Road
Aug 10 -19
5pm-7pm
9841289410
Avadi
 
August
evenings
9791055778
 
SAMSKRITA BHARATI
#2 VALLUVAR KOTAM HIGH ROAD, NUNGAMBAKKAM, CHENNAI-34
Ph; 9443722009 /28272632/39 www.samskritabharati.org
 

Tuesday, July 23, 2013


रामोदन्ते सुन्दरकाण्डः

लङ्काधिदेवतां जित्वा तां प्रविश्यानिलात्मजः ।

सीतां विचिन्वन्नद्राक्षीत् निद्राणं निशि रावणम् ॥ {३}

पदच्छेदः     

लङ्काधिदेवतां, जित्वा, तां, प्रविश्य, अनिलात्मजः ।

सीतां, विचिन्वन् ,अद्राक्षीत्, निद्राणं, निशि , रावणम् ॥

पदार्थः

लङ्काधिदेवताम् = लङ्कापुर्याः रक्षिकाम्

जित्वा = जयं प्राप्य

ताम् = लङ्काम्

प्रविश्य = प्रवेशं कृत्वा

अनिलात्मजः = पवनपुत्रः

सीताम् = मैथिलीम्

विचिन्वन् = अन्वेषणं कुर्वन्, मार्गमाणः

अद्राक्षीत् = अपश्यत्

निद्राणम् = निद्रा मग्नम्

निशि = रात्रौ

रावणम् = दशाननम्

व्याकरणांशाः

विचिन्वन्नद्राक्षीत् = ङमुडागम सन्धिः,‘वि’ उपसर्गपूर्वकः ‘चिञ्’ चयने शतृ प्रत्ययः

अद्राक्षीत् = ‘दृश्’ धातुः लुङ् लकारः (अद्यतने भूतकाले)  प्र.पु. ए.व.

निशि = आकारान्तः स्त्रीलिङ्गो ‘निशा’ शब्दः सप्तम्यां रूपद्वयम्.. यथा..

निशि         निशोः        निट्त्सु / निट्सु

निशायाम्    निशयोः      निशासु

तात्पर्यम्

हनुमान् लङ्कायाः द्वारपालिकां लङ्कादेवतां जित्वा लङ्कायां प्रवेशम् अकरोत् ।

सीतादेवीम् मार्गमाणः सः निद्रा-मग्नं राक्षसं रावणम् अपश्यत् ।

Tuesday, July 16, 2013


अमरकोषः वारिवर्गः

समुद्रस्य कति पर्यायपदानि ?..

 ‘समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।

 उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः

 रत्नाकरो जलनिधिर्यादः पतिरपांपतिः    (१)

                                                अमरकोषः वारिवर्गः ।

समुद्रस्य पञ्चदश-नामानि – तद्यथा..

१. समुद्रः  (सह मुद्रया मर्यादया वर्तते इति)     २.   अब्धिः (आपः धीयन्तेऽत्र) ३. अकूपारः (अगाधत्वात् खनितुम् अशक्यः (नञ्समासः)) ४. पारावारः (पारमावृणोति/पारावारौ अस्य स्तः इति वा) ५. सरित्पतिः (सरितां पतिः)       ६. उदन्वान् (उदकानि सन्ति अत्र) ७. उदधिः (उदकानि धीयन्ते) ८. सिन्धुः (स्यन्दन्ते आपः अत्र) ९. सरस्वान् (सरः अस्मिन् अस्ति इति) १०. सागरः (सगरस्य राज्ञोऽयम्) ११.अर्णवः (अर्णांसि (agitation) सन्ति यस्मिन्)        १२. रत्नाकरः (रत्नानाम् आकरः) १३. जलनिधिः (जलानां निधिः, जलानि निधीयन्तेऽत्र वा) १४. यादःपतिः (यादसां जलजन्तूनां पतिः) १५. अपां पतिः (अप्सां पतिः)

Friday, July 12, 2013


क्षमया सर्वं साध्यते ।

क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते ।

शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ॥  (१.५५)

पदच्छेदः

क्षमा वशीकृतिः लोके क्षमया किम् न साध्यते ।

शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ॥

पदार्थाः

क्षमा =  ‘क्षमूष् सहने’ - सहिष्णुता, तितीक्षा वा क्षमणम् (क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम् ।)      (patience) 

वशीकृतिः = आकर्षिका

लोके = भूमौ

क्षमया = क्षमा करणेन

साध्यते = सिध्यते

शान्तिखड्गः – शान्ति-रूप-शस्त्रम्

करे – हस्ते

दुर्जनः = दुष्टः

अन्वयः

क्षमा लोके वशीकृतिः । क्षमया किं न साध्यते । यस्य करे शान्तिखड्गः (अस्ति) दुर्जनः (तस्य) किं करिष्यति?

भावार्थः

क्षमा-गुणः संसारे सर्वान् वशी करोति । क्षमापालनेन सर्वं हि सिध्यते ।  शान्तिरूपं खड्गं यः हस्ते (हृदये) सर्वदा धरति तं दुष्टाः किं वा कर्तुं शक्नुयुः ? तादृशः शान्तिमान्, क्षमावान् , जीवने सर्वान् विजेष्यति इत्यर्थः ।

अमुं श्लोकं पठन्तु...

क्षमातुल्यं तपो नास्ति, न सन्तोषात्परं सुखम् ।

न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥