रामोदन्ते सुन्दरकाण्डः
लङ्काधिदेवतां जित्वा तां
प्रविश्यानिलात्मजः ।
सीतां विचिन्वन्नद्राक्षीत्
निद्राणं निशि रावणम् ॥ {३}
पदच्छेदः
लङ्काधिदेवतां, जित्वा, तां,
प्रविश्य, अनिलात्मजः ।
सीतां, विचिन्वन् ,अद्राक्षीत्,
निद्राणं, निशि , रावणम् ॥
पदार्थः
लङ्काधिदेवताम् = लङ्कापुर्याः
रक्षिकाम्
जित्वा = जयं प्राप्य
ताम् = लङ्काम्
प्रविश्य = प्रवेशं कृत्वा
अनिलात्मजः = पवनपुत्रः
सीताम् = मैथिलीम्
विचिन्वन् = अन्वेषणं कुर्वन्,
मार्गमाणः
अद्राक्षीत् = अपश्यत्
निद्राणम् = निद्रा मग्नम्
निशि = रात्रौ
रावणम् = दशाननम्
व्याकरणांशाः
विचिन्वन्नद्राक्षीत् = ङमुडागम
सन्धिः,‘वि’ उपसर्गपूर्वकः ‘चिञ्’ चयने शतृ प्रत्ययः
अद्राक्षीत् = ‘दृश्’ धातुः लुङ्
लकारः (अद्यतने भूतकाले) प्र.पु. ए.व.
निशि = आकारान्तः स्त्रीलिङ्गो ‘निशा’
शब्दः सप्तम्यां रूपद्वयम्.. यथा..
निशि निशोः निट्त्सु /
निट्सु
निशायाम् निशयोः
निशासु
तात्पर्यम्
हनुमान् लङ्कायाः द्वारपालिकां
लङ्कादेवतां जित्वा लङ्कायां प्रवेशम् अकरोत् ।
सीतादेवीम् मार्गमाणः सः
निद्रा-मग्नं राक्षसं रावणम् अपश्यत् ।
No comments:
Post a Comment