Tuesday, July 16, 2013


अमरकोषः वारिवर्गः

समुद्रस्य कति पर्यायपदानि ?..

 ‘समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।

 उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः

 रत्नाकरो जलनिधिर्यादः पतिरपांपतिः    (१)

                                                अमरकोषः वारिवर्गः ।

समुद्रस्य पञ्चदश-नामानि – तद्यथा..

१. समुद्रः  (सह मुद्रया मर्यादया वर्तते इति)     २.   अब्धिः (आपः धीयन्तेऽत्र) ३. अकूपारः (अगाधत्वात् खनितुम् अशक्यः (नञ्समासः)) ४. पारावारः (पारमावृणोति/पारावारौ अस्य स्तः इति वा) ५. सरित्पतिः (सरितां पतिः)       ६. उदन्वान् (उदकानि सन्ति अत्र) ७. उदधिः (उदकानि धीयन्ते) ८. सिन्धुः (स्यन्दन्ते आपः अत्र) ९. सरस्वान् (सरः अस्मिन् अस्ति इति) १०. सागरः (सगरस्य राज्ञोऽयम्) ११.अर्णवः (अर्णांसि (agitation) सन्ति यस्मिन्)        १२. रत्नाकरः (रत्नानाम् आकरः) १३. जलनिधिः (जलानां निधिः, जलानि निधीयन्तेऽत्र वा) १४. यादःपतिः (यादसां जलजन्तूनां पतिः) १५. अपां पतिः (अप्सां पतिः)

No comments:

Post a Comment