क्षमया
सर्वं साध्यते ।
क्षमा वशीकृतिर्लोके क्षमया किं
न साध्यते ।
शान्तिखड्गः करे यस्य किं
करिष्यति दुर्जनः ॥ (१.५५)
पदच्छेदः
क्षमा वशीकृतिः लोके क्षमया किम् न साध्यते ।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ॥
पदार्थाः
क्षमा = ‘क्षमूष्
सहने’ - सहिष्णुता, तितीक्षा वा क्षमणम् (क्षमा शत्रौ च मित्रे च यतीनामेव भूषणम्
।) (patience)
वशीकृतिः = आकर्षिका
लोके = भूमौ
क्षमया = क्षमा करणेन
साध्यते = सिध्यते
शान्तिखड्गः – शान्ति-रूप-शस्त्रम्
करे – हस्ते
दुर्जनः = दुष्टः
अन्वयः
क्षमा लोके वशीकृतिः । क्षमया किं न साध्यते । यस्य करे
शान्तिखड्गः (अस्ति) दुर्जनः (तस्य) किं करिष्यति?
भावार्थः
क्षमा-गुणः संसारे सर्वान् वशी करोति । क्षमापालनेन सर्वं
हि सिध्यते । शान्तिरूपं खड्गं यः हस्ते
(हृदये) सर्वदा धरति तं दुष्टाः किं वा कर्तुं शक्नुयुः ? तादृशः शान्तिमान्,
क्षमावान् , जीवने सर्वान् विजेष्यति इत्यर्थः ।
अमुं श्लोकं पठन्तु...
क्षमातुल्यं तपो नास्ति, न सन्तोषात्परं सुखम् ।
न तृष्णायाः परो व्याधिर्न च धर्मो दयापरः ॥
No comments:
Post a Comment