विदुरनीतिः
षडेते तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥१ - ८६॥
पदच्छेदः
षड् एते तु गुणाः पुंसा न हातव्याः कदाचन ।
सत्यम् दानम् अनालस्यम् अनसूया क्षमा धृतिः ॥
अन्वयः
पुंसा सत्यं, दानम्, अनालस्यम्, अनसूया, क्षमा, धृतिः एते षट् गुणाः तु कदाचन न हातव्याः ।
तात्पर्यम्
मनुष्यः कदापि एतान् सत्यं, दानम्, अनालस्यम्, अनसूया, क्षमा, धृतिः च उत्तमान् षट् गुणान् न त्यजेत् ।
समानरीत्या अधो दत्तस्य श्लोकस्य पदच्छेदं अन्वयञ्च कुर्वन्तु ।
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता ॥ १ - ८३ ॥

Good content
ReplyDelete